भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.038

2.038.01

उद् उ ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निर् अस्थात् ।
नूनं देवेभ्यो वि हि धाति रत्नम् अथाभजद् वीतिहोत्रं स्वस्तौ ॥

2.038.02

विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति ।
आपश् चिद् अस्य व्रत आ निमृग्रा अयं चिद् वातो रमते परिज्मन् ॥

2.038.03

आशुभिश् चिद् यान् वि मुचाति नूनम् अरीरमद् अतमानं चिद् एतोः ।
अह्यर्षूणां चिन् न्य् अयाँ अविष्याम् अनु व्रतं सवितुर् मोक्य् आगात् ॥

2.038.04

पुनः सम् अव्यद् विततं वयन्ती मध्या कर्तोर् न्य् अधाच् छक्म धीरः ।
उत् संहायास्थाद् व्य् ऋ1तूँर् अदर्धर् अरमतिः सविता देव आगात् ॥

2.038.05

नानौकांसि दुर्यो विश्वम् आयुर् वि तिष्ठते प्रभवः शोको अग्नेः ।
ज्येष्ठम् माता सूनवे भागम् आधाद् अन्व् अस्य केतम् इषितं सवित्रा ॥

2.038.06

समाववर्ति विष्ठितो जिगीषुर् विश्वेषां कामश् चरताम् अमाभूत् ।
शश्वाँ अपो विकृतं हित्व्य् आगाद् अनु व्रतं सवितुर् दैव्यस्य ॥

2.038.07

त्वया हितम् अप्यम् अप्सु भागं धन्वान्व् आ मृगयसो वि तस्थुः ।
वनानि विभ्यो नकिर् अस्य तानि व्रता देवस्य सवितुर् मिनन्ति ॥

2.038.08

याद्राध्य1ं वरुणो योनिम् अप्यम् अनिशितं निमिषि जर्भुराणः ।
विश्वो मार्ताण्डो व्रजम् आ पशुर् गात् स्थशो जन्मानि सविता व्य् आकः ॥

2.038.09

न यस्येन्द्रो वरुणो न मित्रो व्रतम् अर्यमा न मिनन्ति रुद्रः ।
नारातयस् तम् इदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥

2.038.10

भगं धियं वाजयन्तः पुरंधिं नराशंसो ग्नास्पतिर् नो अव्याः ।
आये वामस्य संगथे रयीणाम् प्रिया देवस्य सवितुः स्याम ॥

2.038.11

अस्मभ्यं तद् दिवो अद्भ्यः पृथिव्यास् त्वया दत्तं काम्यं राध आ गात् ।
शं यत् स्तोतृभ्य आपये भवात्य् उरुशंसाय सवितर् जरित्रे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc