ऋग्वेद · अध्याय 2.039
ग्रावाणेव तद् इद् अर्थं जरेथे गृध्रेव वृक्षं निधिमन्तम् अच्छ ।
ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥
प्रातर्यावाणा रथ्येव वीराजेव यमा वरम् आ सचेथे ।
मेने इव तन्वा3 शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥
शृङ्गेव नः प्रथमा गन्तम् अर्वाक् छफाव् इव जर्भुराणा तरोभिः ।
चक्रवाकेव प्रति वस्तोर् उस्रार्वाञ्चा यातं रथ्येव शक्रा ॥
नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव ।
श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातम् अस्मान् ॥
वातेवाजुर्या नद्येव रीतिर् अक्षी इव चक्षुषा यातम् अर्वाक् ।
हस्ताव् इव तन्वे3 शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥
ओष्ठाव् इव मध्व् आस्ने वदन्ता स्तनाव् इव पिप्यतं जीवसे नः ।
नासेव नस् तन्वो रक्षितारा कर्णाव् इव सुश्रुता भूतम् अस्मे ॥
हस्तेव शक्तिम् अभि संददी नः क्षामेव नः सम् अजतं रजांसि ।
इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥
एतानि वाम् अश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् ।
तानि नरा जुजुषाणोप यातम् बृहद् वदेम विदथे सुवीराः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0