ऋग्वेद · अध्याय 2.037
मन्दस्व होत्राद् अनु जोषम् अन्धसो ऽध्वर्यवः स पूर्णां वष्ट्य् आसिचम् ।
तस्मा एतम् भरत तद्वशो ददिर् होत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥
यम् उ पूर्वम् अहुवे तम् इदं हुवे सेद् उ हव्यो ददिर् यो नाम पत्यते ।
अध्वर्युभिः प्रस्थितं सोम्यम् मधु पोत्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥
मेद्यन्तु ते वह्नयो येभिर् ईयसे ऽरिषण्यन् वीळयस्वा वनस्पते ।
आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात् सोमं द्रविणोदः पिब ऋतुभिः ॥
अपाद् धोत्राद् उत पोत्राद् अमत्तोत नेष्ट्राद् अजुषत प्रयो हितम् ।
तुरीयम् पात्रम् अमृक्तम् अमर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥
अर्वाञ्चम् अद्य यय्यं नृवाहणं रथं युञ्जाथाम् इह वां विमोचनम् ।
पृङ्क्तं हवींषि मधुना हि कं गतम् अथा सोमम् पिबतं वाजिनीवसू ॥
जोष्य् अग्ने समिधं जोष्य् आहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् ।
विश्वेभिर् विश्वाँ ऋतुना वसो मह उशन् देवाँ उशतः पायया हविः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0