भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.032

2.032.01

अस्य मे द्यावापृथिवी ऋतायतो भूतम् अवित्री वचसः सिषासतः ।
ययोर् आयुः प्रतरं ते इदम् पुर उपस्तुते वसूयुर् वाम् महो दधे ॥

2.032.02

मा नो गुह्या रिप आयोर् अहन् दभन् मा न आभ्यो रीरधो दुच्छुनाभ्यः ।
मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत् त्वेमहे ॥

2.032.03

अहेळता मनसा श्रुष्टिम् आ वह दुहानां धेनुम् पिप्युषीम् असश्चतम् ।
पद्याभिर् आशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥

2.032.04

राकाम् अहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्व् अपः सूच्याच्छिद्यमानया ददातु वीरं शतदायम् उक्थ्यम् ॥

2.032.05

यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि ।
ताभिर् नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥

2.032.06

सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा ।
जुषस्व हव्यम् आहुतम् प्रजां देवि दिदिड्ढि नः ॥

2.032.07

या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥

2.032.08

या गुङ्गूर् या सिनीवाली या राका या सरस्वती ।
इन्द्राणीम् अह्व ऊतये वरुणानीं स्वस्तये ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc