भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.033

2.033.01

आ ते पितर् मरुतां सुम्नम् एतु मा नः सूर्यस्य संदृशो युयोथाः ।
अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥

2.033.02

त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
व्य् अ1स्मद् द्वेषो वितरं व्य् अंहो व्य् अमीवाश् चातयस्वा विषूचीः ॥

2.033.03

श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस् तवसां वज्रबाहो ।
पर्षि णः पारम् अंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥

2.033.04

मा त्वा रुद्र चुक्रुधामा नमोभिर् मा दुष्टुती वृषभ मा सहूती ।
उन् नो वीराँ अर्पय भेषजेभिर् भिषक्तमं त्वा भिषजां शृणोमि ॥

2.033.05

हवीमभिर् हवते यो हविर्भिर् अव स्तोमेभी रुद्रं दिषीय ।
ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन् मनायै ॥

2.033.06

उन् मा ममन्द वृषभो मरुत्वान् त्वक्षीयसा वयसा नाधमानम् ।
घृणीव च्छायाम् अरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥

2.033.07

क्व1 स्य ते रुद्र मृळयाकुर् हस्तो यो अस्ति भेषजो जलाषः ।
अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥

2.033.08

प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिम् ईरयामि ।
नमस्या कल्मलीकिनं नमोभिर् गृणीमसि त्वेषं रुद्रस्य नाम ॥

2.033.09

स्थिरेभिर् अङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः ।
ईशानाद् अस्य भुवनस्य भूरेर् न वा उ योषद् रुद्राद् असुर्यम् ॥

2.033.10

अर्हन् बिभर्षि सायकानि धन्वार्हन् निष्कं यजतं विश्वरूपम् ।
अर्हन्न् इदं दयसे विश्वम् अभ्वं न वा ओजीयो रुद्र त्वद् अस्ति ॥

2.033.11

स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् ।
मृळा जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मन् नि वपन्तु सेनाः ॥

2.033.12

कुमारश् चित् पितरं वन्दमानम् प्रति नानाम रुद्रोपयन्तम् ।
भूरेर् दातारं सत्पतिं गृणीषे स्तुतस् त्वम् भेषजा रास्य् अस्मे ॥

2.033.13

या वो भेषजा मरुतः शुचीनि या शंतमा वृषणो या मयोभु ।
यानि मनुर् अवृणीता पिता नस् ता शं च योश् च रुद्रस्य वश्मि ॥

2.033.14

परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर् मही गात् ।
अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृळ ॥

2.033.15

एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि ।
हवनश्रुन् नो रुद्रेह बोधि बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc