भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.031

2.031.01

अस्माकम् मित्रावरुणावतं रथम् आदित्यै रुद्रैर् वसुभिः सचाभुवा ।
प्र यद् वयो न पप्तन् वस्मनस् परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥

2.031.02

अध स्मा न उद् अवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् ।
यद् आशवः पद्याभिस् तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥

2.031.03

उत स्य न इन्द्रो विश्वचर्षणिर् दिवः शर्धेन मारुतेन सुक्रतुः ।
अनु नु स्थात्य् अवृकाभिर् ऊतिभी रथम् महे सनये वाजसातये ॥

2.031.04

उत स्य देवो भुवनस्य सक्षणिस् त्वष्टा ग्नाभिः सजोषा जूजुवद् रथम् ।
इळा भगो बृहद्दिवोत रोदसी पूषा पुरंधिर् अश्विनाव् अधा पती ॥

2.031.05

उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगताम् अपीजुवा ।
स्तुषे यद् वाम् पृथिवि नव्यसा वचः स्थातुश् च वयस् त्रिवया उपस्तिरे ॥

2.031.06

उत वः शंसम् उशिजाम् इव श्मस्य् अहिर् बुध्न्यो3 ऽज एकपाद् उत ।
त्रित ऋभुक्षाः सविता चनो दधे ऽपां नपाद् आशुहेमा धिया शमि ॥

2.031.07

एता वो वश्म्य् उद्यता यजत्रा अतक्षन्न् आयवो नव्यसे सम् ।
श्रवस्यवो वाजं चकानाः सप्तिर् न रथ्यो अह धीतिम् अश्याः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc