भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.029

2.029.01

धृतव्रता आदित्या इषिरा आरे मत् कर्त रहसूर् इवागः ।
शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वाँ अवसे हुवे वः ॥

2.029.02

यूयं देवाः प्रमतिर् यूयम् ओजो यूयं द्वेषांसि सनुतर् युयोत ।
अभिक्षत्तारो अभि च क्षमध्वम् अद्या च नो मृळयतापरं च ॥

2.029.03

किम् ऊ नु वः कृणवामापरेण किं सनेन वसव आप्येन ।
यूयं नो मित्रावरुणादिते च स्वस्तिम् इन्द्रामरुतो दधात ॥

2.029.04

हये देवा यूयम् इद् आपयः स्थ ते मृळत नाधमानाय मह्यम् ।
मा वो रथो मध्यमवाळ् ऋते भून् मा युष्मावत्स्व् आपिषु श्रमिष्म ॥

2.029.05

प्र व एको मिमय भूर्य् आगो यन् मा पितेव कितवं शशास ।
आरे पाशा आरे अघानि देवा मा माधि पुत्रे विम् इव ग्रभीष्ट ॥

2.029.06

अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।
त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्ताद् अवपदो यजत्राः ॥

2.029.07

माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः ।
मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc