ऋग्वेद · अध्याय 2.028
इदं कवेर् आदित्यस्य स्वराजो विश्वानि सान्त्य् अभ्य् अस्तु मह्ना ।
अति यो मन्द्रो यजथाय देवः सुकीर्तिम् भिक्षे वरुणस्य भूरेः ॥
तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः ।
उपायन उषसां गोमतीनाम् अग्नयो न जरमाणा अनु द्यून् ॥
तव स्याम पुरुवीरस्य शर्मन्न् उरुशंसस्य वरुण प्रणेतः ।
यूयं नः पुत्रा अदितेर् अदब्धा अभि क्षमध्वं युज्याय देवाः ॥
प्र सीम् आदित्यो असृजद् विधर्ताँ ऋतं सिन्धवो वरुणस्य यन्ति ।
न श्राम्यन्ति न वि मुचन्त्य् एते वयो न पप्तू रघुया परिज्मन् ॥
वि मच् छ्रथाय रशनाम् इवाग ऋध्याम ते वरुण खाम् ऋतस्य ।
मा तन्तुश् छेदि वयतो धियम् मे मा मात्रा शार्य् अपसः पुर ऋतोः ॥
अपो सु म्यक्ष वरुण भियसम् मत् सम्राळ् ऋतावो ऽनु मा गृभाय ।
दामेव वत्साद् वि मुमुग्ध्य् अंहो नहि त्वद् आरे निमिषश् चनेशे ॥
मा नो वधैर् वरुण ये त इष्टाव् एनः कृण्वन्तम् असुर भ्रीणन्ति ।
मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥
नमः पुरा ते वरुणोत नूनम् उतापरं तुविजात ब्रवाम ।
त्वे हि कम् पर्वते न श्रितान्य् अप्रच्युतानि दूळभ व्रतानि ॥
पर ऋणा सावीर् अध मत्कृतानि माहं राजन्न् अन्यकृतेन भोजम् ।
अव्युष्टा इन् नु भूयसीर् उषास आ नो जीवान् वरुण तासु शाधि ॥
यो मे राजन् युज्यो वा सखा वा स्वप्ने भयम् भीरवे मह्यम् आह ।
स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद् वरुण पाह्य् अस्मान् ॥
माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः ।
मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0