भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.030

2.030.01

ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः ।
अहर्-अहर् यात्य् अक्तुर् अपां कियात्य् आ प्रथमः सर्ग आसाम् ॥

2.030.02

यो वृत्राय सिनम् अत्राभरिष्यत् प्र तं जनित्री विदुष उवाच ।
पथो रदन्तीर् अनु जोषम् अस्मै दिवे-दिवे धुनयो यन्त्य् अर्थम् ॥

2.030.03

ऊर्ध्वो ह्य् अस्थाद् अध्य् अन्तरिक्षे ऽधा वृत्राय प्र वधं जभार ।
मिहं वसान उप हीम् अदुद्रोत् तिग्मायुधो अजयच् छत्रुम् इन्द्रः ॥

2.030.04

बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् ।
यथा जघन्थ धृषता पुरा चिद् एवा जहि शत्रुम् अस्माकम् इन्द्र ॥

2.030.05

अव क्षिप दिवो अश्मानम् उच्चा येन शत्रुम् मन्दसानो निजूर्वाः ।
तोकस्य सातौ तनयस्य भूरेर् अस्माँ अर्धं कृणुताद् इन्द्र गोनाम् ॥

2.030.06

प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ ।
इन्द्रासोमा युवम् अस्माँ अविष्टम् अस्मिन् भयस्थे कृणुतम् उ लोकम् ॥

2.030.07

न मा तमन् न श्रमन् नोत तन्द्रन् न वोचाम मा सुनोतेति सोमम् ।
यो मे पृणाद् यो ददद् यो निबोधाद् यो मा सुन्वन्तम् उप गोभिर् आयत् ॥

2.030.08

सरस्वति त्वम् अस्माँ अविड्ढि मरुत्वती धृषती जेषि शत्रून् ।
त्यं चिच् छर्धन्तं तविषीयमाणम् इन्द्रो हन्ति वृषभं शण्डिकानाम् ॥

2.030.09

यो नः सनुत्य उत वा जिघत्नुर् अभिख्याय तं तिगितेन विध्य ।
बृहस्पत आयुधैर् जेषि शत्रून् द्रुहे रीषन्तम् परि धेहि राजन् ॥

2.030.10

अस्माकेभिः सत्वभिः शूर शूरैर् वीर्या कृधि यानि ते कर्त्वानि ।
ज्योग् अभूवन्न् अनुधूपितासो हत्वी तेषाम् आ भरा नो वसूनि ॥

2.030.11

तं वः शर्धम् मारुतं सुम्नयुर् गिरोप ब्रुवे नमसा दैव्यं जनम् ।
यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवे-दिवे ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc