ऋग्वेद · अध्याय 2.027
इमा गिर आदित्येभ्यो घृतस्नूः सनाद् राजभ्यो जुह्वा जुहोमि ।
शृणोतु मित्रो अर्यमा भगो नस् तुविजातो वरुणो दक्षो अंशः ॥
इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त ।
आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥
त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः ।
अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिद् अन्ति ॥
धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः ।
दीर्घाधियो रक्षमाणा असुर्यम् ऋतावानश् चयमाना ऋणानि ॥
विद्याम् आदित्या अवसो वो अस्य यद् अर्यमन् भय आ चिन् मयोभु ।
युष्माकम् मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥
सुगो हि वो अर्यमन् मित्र पन्था अनृक्षरो वरुण साधुर् अस्ति ।
तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥
पिपर्तु नो अदिती राजपुत्राति द्वेषांस्य् अर्यमा सुगेभिः ।
बृहन् मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥
तिस्रो भूमीर् धारयन् त्रीँर् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् ।
ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥
त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः ।
अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥
त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः ।
शतं नो रास्व शरदो विचक्षे ऽश्यामायूंषि सुधितानि पूर्वा ॥
न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा ।
पाक्या चिद् वसवो धीर्या चिद् युष्मानीतो अभयं ज्योतिर् अश्याम् ॥
यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश् च नित्याः ।
स रेवान् याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥
शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः ।
नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ॥
अदिते मित्र वरुणोत मृळ यद् वो वयं चकृमा कच् चिद् आगः ।
उर्व् अश्याम् अभयं ज्योतिर् इन्द्र मा नो दीर्घा अभि नशन् तमिस्राः ॥
उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् ।
उभा क्षयाव् आजयन् याति पृत्सूभाव् अर्धौ भवतः साधू अस्मै ॥
या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः ।
अश्वीव ताँ अति येषं रथेनारिष्टा उराव् आ शर्मन् स्याम ॥
माहम् मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनम् आपेः ।
मा रायो राजन् सुयमाद् अव स्थाम् बृहद् वदेम विदथे सुवीराः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0