भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.005

2.005.01

होताजनिष्ट चेतनः पिता पितृभ्य ऊतये ।
प्रयक्षञ् जेन्यं वसु शकेम वाजिनो यमम् ॥

2.005.02

आ यस्मिन् सप्त रश्मयस् तता यज्ञस्य नेतरि ।
मनुष्वद् दैव्यम् अष्टमम् पोता विश्वं तद् इन्वति ॥

2.005.03

दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् ।
परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥

2.005.04

साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि ।
विद्वाँ अस्य व्रता ध्रुवा वया इवानु रोहते ॥

2.005.05

ता अस्य वर्णम् आयुवो नेष्टुः सचन्त धेनवः ।
कुवित् तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥

2.005.06

यदी मातुर् उप स्वसा घृतम् भरन्त्य् अस्थित ।
तासाम् अध्वर्युर् आगतौ यवो वृष्टीव मोदते ॥

2.005.07

स्वः स्वाय धायसे कृणुताम् ऋत्विग् ऋत्विजम् ।
स्तोमं यज्ञं चाद् अरं वनेमा ररिमा वयम् ॥

2.005.08

यथा विद्वाँ अरं करद् विश्वेभ्यो यजतेभ्यः ।
अयम् अग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc