भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.004

2.004.01

हुवे वः सुद्योत्मानं सुवृक्तिं विशाम् अग्निम् अतिथिं सुप्रयसम् ।
मित्र इव यो दिधिषाय्यो भूद् देव आदेवे जने जातवेदाः ॥

2.004.02

इमं विधन्तो अपां सधस्थे द्वितादधुर् भृगवो विक्ष्व् आ3योः ।
एष विश्वान्य् अभ्य् अस्तु भूमा देवानाम् अग्निर् अरतिर् जीराश्वः ॥

2.004.03

अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् ।
स दीदयद् उशतीर् ऊर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥

2.004.04

अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिर् अस्य हियानस्य दक्षोः ।
वि यो भरिभ्रद् ओषधीषु जिह्वाम् अत्यो न रथ्यो दोधवीति वारान् ॥

2.004.05

आ यन् मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् ।
स चित्रेण चिकिते रंसु भासा जुजुर्वाँ यो मुहुर् आ युवा भूत् ॥

2.004.06

आ यो वना तातृषाणो न भाति वार् ण पथा रथ्येव स्वानीत् ।
कृष्णाध्वा तपू रण्वश् चिकेत द्यौर् इव स्मयमानो नभोभिः ॥

2.004.07

स यो व्य् अस्थाद् अभि दक्षद् उर्वीम् पशुर् नैति स्वयुर् अगोपाः ।
अग्निः शोचिष्माँ अतसान्य् उष्णन् कृष्णव्यथिर् अस्वदयन् न भूम ॥

2.004.08

नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि ।
अस्मे अग्ने संयद्वीरम् बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥

2.004.09

त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपराँ अभि ष्युः ।
सुवीरासो अभिमातिषाहः स्मत् सूरिभ्यो गृणते तद् वयो धाः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc