ऋग्वेद · अध्याय 2.002
यज्ञेन वर्धत जातवेदसम् अग्निं यजध्वं हविषा तना गिरा ।
समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥
अभि त्वा नक्तीर् उषसो ववाशिरे ऽग्ने वत्सं न स्वसरेषु धेनवः ।
दिव इवेद् अरतिर् मानुषा युगा क्षपो भासि पुरुवार संयतः ॥
तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योर् अरतिं न्य् एरिरे ।
रथम् इव वेद्यं शुक्रशोचिषम् अग्निम् मित्रं न क्षितिषु प्रशंस्यम् ॥
तम् उक्षमाणं रजसि स्व आ दमे चन्द्रम् इव सुरुचं ह्वार आ दधुः ।
पृश्न्याः पतरं चितयन्तम् अक्षभिः पाथो न पायुं जनसी उभे अनु ॥
स होता विश्वम् परि भूत्व् अध्वरं तम् उ हव्यैर् मनुष ऋञ्जते गिरा ।
हिरिशिप्रो वृधसानासु जर्भुरद् द्यौर् न स्तृभिश् चितयद् रोदसी अनु ॥
स नो रेवत् समिधानः स्वस्तये संददस्वान् रयिम् अस्मासु दीदिहि ।
आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥
दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि ।
प्राची द्यावापृथिवी ब्रह्मणा कृधि स्व1र् ण शुक्रम् उषसो वि दिद्युतः ॥
स इधान उषसो राम्या अनु स्व1र् ण दीदेद् अरुषेण भानुना ।
होत्राभिर् अग्निर् मनुषः स्वध्वरो राजा विशाम् अतिथिश् चारुर् आयवे ॥
एवा नो अग्ने अमृतेषु पूर्व्य धीष् पीपाय बृहद्दिवेषु मानुषा ।
दुहाना धेनुर् वृजनेषु कारवे त्मना शतिनम् पुरुरूपम् इषणि ॥
वयम् अग्ने अर्वता वा सुवीर्यम् ब्रह्मणा वा चितयेमा जनाँ अति ।
अस्माकं द्युम्नम् अधि पञ्च कृष्टिषूच्चा स्व1र् ण शुशुचीत दुष्टरम् ॥
स नो बोधि सहस्य प्रशंस्यो यस्मिन् सुजाता इषयन्त सूरयः ।
यम् अग्ने यज्ञम् उपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥
उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश् च शर्मणि ।
वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥
ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः ।
अस्माञ् च ताँश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0