भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.003

2.003.01

समिद्धो अग्निर् निहितः पृथिव्याम् प्रत्यङ् विश्वानि भुवनान्य् अस्थात् ।
होता पावकः प्रदिवः सुमेधा देवो देवान् यजत्व् अग्निर् अर्हन् ॥

2.003.02

नराशंसः प्रति धामान्य् अञ्जन् तिस्रो दिवः प्रति मह्ना स्वर्चिः ।
घृतप्रुषा मनसा हव्यम् उन्दन् मूर्धन् यज्ञस्य सम् अनक्तु देवान् ॥

2.003.03

ईळितो अग्ने मनसा नो अर्हन् देवान् यक्षि मानुषात् पूर्वो अद्य ।
स आ वह मरुतां शर्धो अच्युतम् इन्द्रं नरो बर्हिषदं यजध्वम् ॥

2.003.04

देव बर्हिर् वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्य् अस्याम् ।
घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥

2.003.05

वि श्रयन्ताम् उर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः ।
व्यचस्वतीर् वि प्रथन्ताम् अजुर्या वर्णम् पुनाना यशसं सुवीरम् ॥

2.003.06

साध्व् अपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते ।
तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥

2.003.07

दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः सम् ऋचा वपुष्टरा ।
देवान् यजन्ताव् ऋतुथा सम् अञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥

2.003.08

सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः ।
तिस्रो देवीः स्वधया बर्हिर् एदम् अच्छिद्रम् पान्तु शरणं निषद्य ॥

2.003.09

पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः ॥

2.003.10

वनस्पतिर् अवसृजन्न् उप स्थाद् अग्निर् हविः सूदयाति प्र धीभिः ।
त्रिधा समक्तं नयतु प्रजानन् देवेभ्यो दैव्यः शमितोप हव्यम् ॥

2.003.11

घृतम् मिमिक्षे घृतम् अस्य योनिर् घृते श्रितो घृतम् व् अस्य धाम ।
अनुष्वधम् आ वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc