भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 2.001

2.001.01

त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि ।
त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥

2.001.02

तवाग्ने होत्रं तव पोत्रम् ऋत्वियं तव नेष्ट्रं त्वम् अग्निद् ऋतायतः ।
तव प्रशास्त्रं त्वम् अध्वरीयसि ब्रह्मा चासि गृहपतिश् च नो दमे ॥

2.001.03

त्वम् अग्न इन्द्रो वृषभः सताम् असि त्वं विष्णुर् उरुगायो नमस्यः ।
त्वम् ब्रह्मा रयिविद् ब्रह्मणस् पते त्वं विधर्तः सचसे पुरंध्या ॥

2.001.04

त्वम् अग्ने राजा वरुणो धृतव्रतस् त्वम् मित्रो भवसि दस्म ईड्यः ।
त्वम् अर्यमा सत्पतिर् यस्य सम्भुजं त्वम् अंशो विदथे देव भाजयुः ॥

2.001.05

त्वम् अग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् ।
त्वम् आशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥

2.001.06

त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वं शर्धो मारुतम् पृक्ष ईशिषे ।
त्वं वातैर् अरुणैर् यासि शंगयस् त्वम् पूषा विधतः पासि नु त्मना ॥

2.001.07

त्वम् अग्ने द्रविणोदा अरंकृते त्वं देवः सविता रत्नधा असि ।
त्वम् भगो नृपते वस्व ईशिषे त्वम् पायुर् दमे यस् ते ऽविधत् ॥

2.001.08

त्वाम् अग्ने दम आ विश्पतिं विशस् त्वां राजानं सुविदत्रम् ऋञ्जते ।
त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥

2.001.09

त्वाम् अग्ने पितरम् इष्टिभिर् नरस् त्वाम् भ्रात्राय शम्या तनूरुचम् ।
त्वम् पुत्रो भवसि यस् ते ऽविधत् त्वं सखा सुशेवः पास्य् आधृषः ॥

2.001.10

त्वम् अग्न ऋभुर् आके नमस्य1स् त्वं वाजस्य क्षुमतो राय ईशिषे ।
त्वं वि भास्य् अनु दक्षि दावने त्वं विशिक्षुर् असि यज्ञम् आतनिः ॥

2.001.11

त्वम् अग्ने अदितिर् देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा ।
त्वम् इळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥

2.001.12

त्वम् अग्ने सुभृत उत्तमं वयस् तव स्पार्हे वर्ण आ संदृशि श्रियः ।
त्वं वाजः प्रतरणो बृहन्न् असि त्वं रयिर् बहुलो विश्वतस् पृथुः ॥

2.001.13

त्वाम् अग्न आदित्यास आस्य1ं त्वां जिह्वां शुचयश् चक्रिरे कवे ।
त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविर् अदन्त्य् आहुतम् ॥

2.001.14

त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविर् अदन्त्य् आहुतम् ।
त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥

2.001.15

त्वं तान् सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे ।
पृक्षो यद् अत्र महिना वि ते भुवद् अनु द्यावापृथिवी रोदसी उभे ॥

2.001.16

ये स्तोतृभ्यो गोअग्राम् अश्वपेशसम् अग्ने रातिम् उपसृजन्ति सूरयः ।
अस्माञ् च ताँश् च प्र हि नेषि वस्य आ बृहद् वदेम विदथे सुवीराः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc