भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.163

10.163.01

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकाद् अधि ।
यक्ष्मं शीर्षण्यम् मस्तिष्काज् जिह्वाया वि वृहामि ते ॥

10.163.02

ग्रीवाभ्यस् त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
यक्ष्मं दोषण्य1म् अंसाभ्याम् बाहुभ्यां वि वृहामि ते ॥

10.163.03

आन्त्रेभ्यस् ते गुदाभ्यो वनिष्ठोर् हृदयाद् अधि ।
यक्ष्मम् मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥

10.163.04

ऊरुभ्यां ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् ।
यक्ष्मं श्रोणिभ्याम् भासदाद् भंससो वि वृहामि ते ॥

10.163.05

मेहनाद् वनंकरणाल् लोमभ्यस् ते नखेभ्यः ।
यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥

10.163.06

अङ्गाद्-अङ्गाल् लोम्नो-लोम्नो जातम् पर्वणि-पर्वणि ।
यक्ष्मं सर्वस्माद् आत्मनस् तम् इदं वि वृहामि ते ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc