भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.164

10.164.01

अपेहि मनसस् पते ऽप क्राम परश् चर ।
परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥

10.164.02

भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् ।
भद्रं वैवस्वते चक्षुर् बहुत्रा जीवतो मनः ॥

10.164.03

यद् आशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः ।
अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु ॥

10.164.04

यद् इन्द्र ब्रह्मणस् पते ऽभिद्रोहं चरामसि ।
प्रचेता न आङ्गिरसो द्विषताम् पात्व् अंहसः ॥

10.164.05

अजैष्माद्यासनाम चाभूमानागसो वयम् ।
जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस् तं स ऋच्छतु यो नो द्वेष्टि तम् ऋच्छतु ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc