भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.162

10.162.01

ब्रह्मणाग्निः संविदानो रक्षोहा बाधताम् इतः ।
अमीवा यस् ते गर्भं दुर्णामा योनिम् आशये ॥

10.162.02

यस् ते गर्भम् अमीवा दुर्णामा योनिम् आशये ।
अग्निष् टम् ब्रह्मणा सह निष् क्रव्यादम् अनीनशत् ॥

10.162.03

यस् ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
जातं यस् ते जिघांसति तम् इतो नाशयामसि ॥

10.162.04

यस् त ऊरू विहरत्य् अन्तरा दम्पती शये ।
योनिं यो अन्तर् आरेळ्हि तम् इतो नाशयामसि ॥

10.162.05

यस् त्वा भ्राता पतिर् भूत्वा जारो भूत्वा निपद्यते ।
प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥

10.162.06

यस् त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
प्रजां यस् ते जिघांसति तम् इतो नाशयामसि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc