भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.161

10.161.01

मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञातयक्ष्माद् उत राजयक्ष्मात् ।
ग्राहिर् जग्राह यदि वैतद् एनं तस्या इन्द्राग्नी प्र मुमुक्तम् एनम् ॥

10.161.02

यदि क्षितायुर् यदि वा परेतो यदि मृत्योर् अन्तिकं नीत एव ।
तम् आ हरामि निरृतेर् उपस्थाद् अस्पार्षम् एनं शतशारदाय ॥

10.161.03

सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षम् एनम् ।
शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥

10.161.04

शतं जीव शरदो वर्धमानः शतं हेमन्ताञ् छतम् उ वसन्तान् ।
शतम् इन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमम् पुनर् दुः ॥

10.161.05

आहार्षं त्वाविदं त्वा पुनर् आगाः पुनर्नव ।
सर्वाङ्ग सर्वं ते चक्षुः सर्वम् आयुश् च ते ऽविदम् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc