ऋग्वेद · अध्याय 10.160
तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।
इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यम् इमे सुतासः ॥
तुभ्यं सुतास् तुभ्यम् उ सोत्वासस् त्वां गिरः श्वात्र्या आ ह्वयन्ति ।
इन्द्रेदम् अद्य सवनं जुषाणो विश्वस्य विद्वाँ इह पाहि सोमम् ॥
य उशता मनसा सोमम् अस्मै सर्वहृदा देवकामः सुनोति ।
न गा इन्द्रस् तस्य परा ददाति प्रशस्तम् इच् चारुम् अस्मै कृणोति ॥
अनुस्पष्टो भवत्य् एषो अस्य यो अस्मै रेवान् न सुनोति सोमम् ।
निर् अरत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्य् अनानुदिष्टः ॥
अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
आभूषन्तस् ते सुमतौ नवायां वयम् इन्द्र त्वा शुनं हुवेम ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0