भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.159

10.159.01

उद् असौ सूर्यो अगाद् उद् अयम् मामको भगः ।
अहं तद् विद्वला पतिम् अभ्य् असाक्षि विषासहिः ॥

10.159.02

अहं केतुर् अहम् मूर्धाहम् उग्रा विवाचनी ।
ममेद् अनु क्रतुम् पतिः सेहानाया उपाचरेत् ॥

10.159.03

मम पुत्राः शत्रुहणो ऽथो मे दुहिता विराट् ।
उताहम् अस्मि संजया पत्यौ मे श्लोक उत्तमः ॥

10.159.04

येनेन्द्रो हविषा कृत्व्य् अभवद् द्युम्न्य् उत्तमः ।
इदं तद् अक्रि देवा असपत्ना किलाभुवम् ॥

10.159.05

असपत्ना सपत्नघ्नी जयन्त्य् अभिभूवरी ।
आवृक्षम् अन्यासां वर्चो राधो अस्थेयसाम् इव ॥

10.159.06

सम् अजैषम् इमा अहं सपत्नीर् अभिभूवरी ।
यथाहम् अस्य वीरस्य विराजानि जनस्य च ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc