ऋग्वेद · अध्याय 10.146
अरण्यान्य् अरण्यान्य् असौ या प्रेव नश्यसि ।
कथा ग्रामं न पृच्छसि न त्वा भीर् इव विन्दती3ँ ॥
वृषारवाय वदते यद् उपावति चिच्चिकः ।
आघाटिभिर् इव धावयन्न् अरण्यानिर् महीयते ॥
उत गाव इवादन्त्य् उत वेश्मेव दृश्यते ।
उतो अरण्यानिः सायं शकटीर् इव सर्जति ॥
गाम् अङ्गैष आ ह्वयति दार्व् अङ्गैषो अपावधीत् ।
वसन्न् अरण्यान्यां सायम् अक्रुक्षद् इति मन्यते ॥
न वा अरण्यानिर् हन्त्य् अन्यश् चेन् नाभिगच्छति ।
स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥
आञ्जनगन्धिं सुरभिम् बह्वन्नाम् अकृषीवलाम् ।
प्राहम् मृगाणाम् मातरम् अरण्यानिम् अशंसिषम् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0