ऋग्वेद · अध्याय 10.145
इमां खनाम्य् ओषधिं वीरुधम् बलवत्तमाम् ।
यया सपत्नीम् बाधते यया संविन्दते पतिम् ॥
उत्तानपर्णे सुभगे देवजूते सहस्वति ।
सपत्नीम् मे परा धम पतिम् मे केवलं कुरु ॥
उत्तराहम् उत्तर उत्तरेद् उत्तराभ्यः ।
अथा सपत्नी या ममाधरा साधराभ्यः ॥
नह्य् अस्या नाम गृभ्णामि नो अस्मिन् रमते जने ।
पराम् एव परावतं सपत्नीं गमयामसि ॥
अहम् अस्मि सहमानाथ त्वम् असि सासहिः ।
उभे सहस्वती भूत्वी सपत्नीम् मे सहावहै ॥
उप ते ऽधां सहमानाम् अभि त्वाधां सहीयसा ।
माम् अनु प्र ते मनो वत्सं गौर् इव धावतु पथा वार् इव धावतु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0