भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.147

10.147.01

श्रत् ते दधामि प्रथमाय मन्यवे ऽहन् यद् वृत्रं नर्यं विवेर् अपः ।
उभे यत् त्वा भवतो रोदसी अनु रेजते शुष्मात् पृथिवी चिद् अद्रिवः ॥

10.147.02

त्वम् मायाभिर् अनवद्य मायिनं श्रवस्यता मनसा वृत्रम् अर्दयः ।
त्वाम् इन् नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्व् इष्टिषु ॥

10.147.03

ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्न् आनशुर् मघम् ।
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनम् अह्रये धने ॥

10.147.04

स इन् नु रायः सुभृतस्य चाकनन् मदं यो अस्य रंह्यं चिकेतति ।
त्वावृधो मघवन् दाश्वध्वरो मक्षू स वाजम् भरते धना नृभिः ॥

10.147.05

त्वं शर्धाय महिना गृणान उरु कृधि मघवञ् छग्धि रायः ।
त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc