भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.144

10.144.01

अयं हि ते अमर्त्य इन्दुर् अत्यो न पत्यते ।
दक्षो विश्वायुर् वेधसे ॥

10.144.02

अयम् अस्मासु काव्य ऋभुर् वज्रो दास्वते ।
अयम् बिभर्त्य् ऊर्ध्वकृशनम् मदम् ऋभुर् न कृत्व्यम् मदम् ॥

10.144.03

घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः ।
अव दीधेद् अहीशुवः ॥

10.144.04

यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् ।
शतचक्रं यो3 ऽह्यो वर्तनिः ॥

10.144.05

यं ते श्येनश् चारुम् अवृकम् पदाभरद् अरुणम् मानम् अन्धसः ।
एना वयो वि तार्य् आयुर् जीवस एना जागार बन्धुता ॥

10.144.06

एवा तद् इन्द्र इन्दुना देवेषु चिद् धारयाते महि त्यजः ।
क्रत्वा वयो वि तार्य् आयुः सुक्रतो क्रत्वायम् अस्मद् आ सुतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc