भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.143

10.143.01

त्यं चिद् अत्रिम् ऋतजुरम् अर्थम् अश्वं न यातवे ।
कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥

10.143.02

त्यं चिद् अश्वं न वाजिनम् अरेणवो यम् अत्नत ।
दृळ्हं ग्रन्थिं न वि ष्यतम् अत्रिं यविष्ठम् आ रजः ॥

10.143.03

नरा दंसिष्ठाव् अत्रये शुभ्रा सिषासतं धियः ।
अथा हि वां दिवो नरा पुनः स्तोमो न विशसे ॥

10.143.04

चिते तद् वां सुराधसा रातिः सुमतिर् अश्विना ।
आ यन् नः सदने पृथौ समने पर्षथो नरा ॥

10.143.05

युवम् भुज्युं समुद्र आ रजसः पार ईङ्खितम् ।
यातम् अच्छा पतत्रिभिर् नासत्या सातये कृतम् ॥

10.143.06

आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा ।
सम् अस्मे भूषतं नरोत्सं न पिप्युषीर् इषः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc