ऋग्वेद · अध्याय 10.142
अयम् अग्ने जरिता त्वे अभूद् अपि सहसः सूनो नह्य् अ1न्यद् अस्त्य् आप्यम् ।
भद्रं हि शर्म त्रिवरूथम् अस्ति त आरे हिंसानाम् अप दिद्युम् आ कृधि ॥
प्रवत् ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्य् ऋञ्जसे ।
प्र सप्तयः प्र सनिषन्त नो धियः पुरश् चरन्ति पशुपा इव त्मना ॥
उत वा उ परि वृणक्षि बप्सद् बहोर् अग्न उलपस्य स्वधावः ।
उत खिल्या उर्वराणाम् भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥
यद् उद्वतो निवतो यासि बप्सत् पृथग् एषि प्रगर्धिनीव सेना ।
यदा ते वातो अनुवाति शोचिर् वप्तेव श्मश्रु वपसि प्र भूम ॥
प्रत्य् अस्य श्रेणयो ददृश्र एकं नियानम् बहवो रथासः ।
बाहू यद् अग्ने अनुमर्मृजानो न्यङ्ङ् उत्तानाम् अन्वेषि भूमिम् ॥
उत् ते शुष्मा जिहताम् उत् ते अर्चिर् उत् ते अग्ने शशमानस्य वाजाः ।
उच् छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥
अपाम् इदं न्ययनं समुद्रस्य निवेशनम् ।
अन्यं कृणुष्वेतः पन्थां तेन याहि वशाँ अनु ॥
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
ह्रदाश् च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0