ऋग्वेद · अध्याय 10.141
अग्ने अच्छा वदेह नः प्रत्यङ् नः सुमना भव ।
प्र नो यच्छ विशस् पते धनदा असि नस् त्वम् ॥
प्र नो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः ।
प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥
सोमं राजानम् अवसे ऽग्निं गीर्भिर् हवामहे ।
आदित्यान् विष्णुं सूर्यम् ब्रह्माणं च बृहस्पतिम् ॥
इन्द्रवायू बृहस्पतिं सुहवेह हवामहे ।
यथा नः सर्व इज् जनः संगत्यां सुमना असत् ॥
अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय ।
वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥
त्वं नो अग्ने अग्निभिर् ब्रह्म यज्ञं च वर्धय ।
त्वं नो देवतातये रायो दानाय चोदय ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0