ऋग्वेद · अध्याय 10.140
अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।
बृहद्भानो शवसा वाजम् उक्थ्य1ं दधासि दाशुषे कवे ॥
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना ।
पुत्रो मातरा विचरन्न् उपावसि पृणक्षि रोदसी उभे ॥
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व धीतिभिर् हितः ।
त्वे इषः सं दधुर् भूरिवर्पसश् चित्रोतयो वामजाताः ॥
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य ।
स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥
इष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।
रातिं वामस्य सुभगाम् महीम् इषं दधासि सानसिं रयिम् ॥
ऋतावानम् महिषं विश्वदर्शतम् अग्निं सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यम् मानुषा युगा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0