ऋग्वेद · अध्याय 10.136
केश्य् अ1ग्निं केशी विषं केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर् दृशे केशीदं ज्योतिर् उच्यते ॥
मुनयो वातरशनाः पिशङ्गा वसते मला ।
वातस्यानु ध्राजिं यन्ति यद् देवासो अविक्षत ॥
उन्मदिता मौनेयेन वाताँ आ तस्थिमा वयम् ।
शरीरेद् अस्माकं यूयम् मर्तासो अभि पश्यथ ॥
अन्तरिक्षेण पतति विश्वा रूपावचाकशत् ।
मुनिर् देवस्य-देवस्य सौकृत्याय सखा हितः ॥
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः ।
उभौ समुद्राव् आ क्षेति यश् च पूर्व उतापरः ॥
अप्सरसां गन्धर्वाणाम् मृगाणां चरणे चरन् ।
केशी केतस्य विद्वान् सखा स्वादुर् मदिन्तमः ॥
वायुर् अस्मा उपामन्थत् पिनष्टि स्मा कुनन्नमा ।
केशी विषस्य पात्रेण यद् रुद्रेणापिबत् सह ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0