ऋग्वेद · अध्याय 10.135
यस्मिन् वृक्षे सुपलाशे देवैः सम्पिबते यमः ।
अत्रा नो विश्पतिः पिता पुराणाँ अनु वेनति ॥
पुराणाँ अनुवेनन्तं चरन्तम् पापयामुया ।
असूयन्न् अभ्य् अचाकशं तस्मा अस्पृहयम् पुनः ॥
यं कुमार नवं रथम् अचक्रम् मनसाकृणोः ।
एकेषं विश्वतः प्राञ्चम् अपश्यन्न् अधि तिष्ठसि ॥
यं कुमार प्रावर्तयो रथं विप्रेभ्यस् परि ।
तं सामानु प्रावर्तत सम् इतो नाव्य् आहितम् ॥
कः कुमारम् अजनयद् रथं को निर् अवर्तयत् ।
कः स्वित् तद् अद्य नो ब्रूयाद् अनुदेयी यथाभवत् ॥
यथाभवद् अनुदेयी ततो अग्रम् अजायत ।
पुरस्ताद् बुध्न आततः पश्चान् निरयणं कृतम् ॥
इदं यमस्य सादनं देवमानं यद् उच्यते ।
इयम् अस्य धम्यते नाळीर् अयं गीर्भिः परिष्कृतः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0