ऋग्वेद · अध्याय 10.137
उत देवा अवहितं देवा उन् नयथा पुनः ।
उतागश् चक्रुषं देवा देवा जीवयथा पुनः ॥
द्वाव् इमौ वातौ वात आ सिन्धोर् आ परावतः ।
दक्षं ते अन्य आ वातु परान्यो वातु यद् रपः ॥
आ वात वाहि भेषजं वि वात वाहि यद् रपः ।
त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥
आ त्वागमं शंतातिभिर् अथो अरिष्टतातिभिः ।
दक्षं ते भद्रम् आभार्षम् परा यक्ष्मं सुवामि ते ॥
त्रायन्ताम् इह देवास् त्रायताम् मरुतां गणः ।
त्रायन्तां विश्वा भूतानि यथायम् अरपा असत् ॥
आप इद् वा उ भेषजीर् आपो अमीवचातनीः ।
आपः सर्वस्य भेषजीस् तास् ते कृण्वन्तु भेषजम् ॥
हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0