ऋग्वेद · अध्याय 10.134
उभे यद् इन्द्र रोदसी आपप्राथोषा इव ।
महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥
अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् ।
अधस्पदं तम् ईं कृधि यो अस्माँ आदिदेशति देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥
अव त्या बृहतीर् इषो विश्वश्चन्द्रा अमित्रहन् ।
शचीभिः शक्र धूनुहीन्द्र विश्वाभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥
अव यत् त्वं शतक्रतव् इन्द्र विश्वानि धूनुषे ।
रयिं न सुन्वते सचा सहस्रिणीभिर् ऊतिभिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥
अव स्वेदा इवाभितो विष्वक् पतन्तु दिद्यवः ।
दूर्वाया इव तन्तवो व्य् अ1स्मद् एतु दुर्मतिर् देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥
दीर्घं ह्य् अङ्कुशं यथा शक्तिम् बिभर्षि मन्तुमः ।
पूर्वेण मघवन् पदाजो वयां यथा यमो देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनत् ॥
नकिर् देवा मिनीमसि नकिर् आ योपयामसि मन्त्रश्रुत्यं चरामसि ।
पक्षेभिर् अपिकक्षेभिर् अत्राभि सं रभामहे ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0