ऋग्वेद · अध्याय 10.133
प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत ।
अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहास्माकम् बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥
त्वं सिन्धूँर् अवासृजो ऽधराचो अहन्न् अहिम् ।
अशत्रुर् इन्द्र जज्ञिषे विश्वम् पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥
वि षु विश्वा अरातयो ऽर्यो नशन्त नो धियः ।
अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर् ददिर् वसु नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥
यो न इन्द्राभितो जनो वृकायुर् आदिदेशति ।
अधस्पदं तम् ईं कृधि विबाधो असि सासहिर् नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥
यो न इन्द्राभिदासति सनाभिर् यश् च निष्ट्यः ।
अव तस्य बलं तिर महीव द्यौर् अध त्मना नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥
वयम् इन्द्र त्वायवः सखित्वम् आ रभामहे ।
ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ॥
अस्मभ्यं सु त्वम् इन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे ।
अच्छिद्रोध्नी पीपयद् यथा नः सहस्रधारा पयसा मही गौः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0