ऋग्वेद · अध्याय 10.131
अप प्राच इन्द्र विश्वाँ अमित्रान् अपापाचो अभिभूते नुदस्व ।
अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय ।
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे संगमेषु ।
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥
युवं सुरामम् अश्विना नमुचाव् आसुरे सचा ।
विपिपाना शुभस् पती इन्द्रं कर्मस्व् आवतम् ॥
पुत्रम् इव पितराव् अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः ।
यत् सुरामं व्य् अपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक् ॥
इन्द्रः सुत्रामा स्ववाँ अवोभिः सुमृळीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
स सुत्रामा स्ववाँ इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0