ऋग्वेद · अध्याय 10.130
यो यज्ञो विश्वतस् तन्तुभिस् तत एकशतं देवकर्मेभिर् आयतः ।
इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्य् आसते तते ॥
पुमाँ एनं तनुत उत् कृणत्ति पुमान् वि तत्ने अधि नाके अस्मिन् ।
इमे मयूखा उप सेदुर् ऊ सदः सामानि चक्रुस् तसराण्य् ओतवे ॥
कासीत् प्रमा प्रतिमा किं निदानम् आज्यं किम् आसीत् परिधिः क आसीत् ।
छन्दः किम् आसीत् प्रüगं किम् उक्थं यद् देवा देवम् अयजन्त विश्वे ॥
अग्नेर् गायत्र्य् अभवत् सयुग्वोष्णिहया सविता सम् बभूव ।
अनुष्टुभा सोम उक्थैर् महस्वान् बृहस्पतेर् बृहती वाचम् आवत् ॥
विराण् मित्रावरुणयोर् अभिश्रीर् इन्द्रस्य त्रिष्टुब् इह भागो अह्नः ।
विश्वान् देवाञ् जगत्य् आ विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥
चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे ।
पश्यन् मन्ये मनसा चक्षसा तान् य इमं यज्ञम् अयजन्त पूर्वे ॥
सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः ।
पूर्वेषाम् पन्थाम् अनुदृश्य धीरा अन्वालेभिरे रथ्यो3 न रश्मीन् ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0