भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.132

10.132.01

ईजानम् इद् द्यौर् गूर्तावसुर् ईजानम् भूमिर् अभि प्रभूषणि ।
ईजानं देवाव् अश्विनाव् अभि सुम्नैर् अवर्धताम् ॥

10.132.02

ता वाम् मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि ।
युवोः क्राणाय सख्यैर् अभि ष्याम रक्षसः ॥

10.132.03

अधा चिन् नु यद् दिधिषामहे वाम् अभि प्रियं रेक्णः पत्यमानाः ।
दद्वाँ वा यत् पुष्यति रेक्णः सम् व् आरन् नकिर् अस्य मघानि ॥

10.132.04

असाव् अन्यो असुर सूयत द्यौस् त्वं विश्वेषां वरुणासि राजा ।
मूर्धा रथस्य चाकन् नैतावतैनसान्तकध्रुक् ॥

10.132.05

अस्मिन् स्व् ए3तच् छकपूत एनो हिते मित्रे निगतान् हन्ति वीरान् ।
अवोर् वा यद् धात् तनूष्व् अवः प्रियासु यज्ञियास्व् अर्वा ॥

10.132.06

युवोर् हि मातादितिर् विचेतसा द्यौर् न भूमिः पयसा पुपूतनि ।
अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥

10.132.07

युवं ह्य् अप्नराजाव् असीदतं तिष्ठद् रथं न धूर्षदं वनर्षदम् ।
ता नः कणूकयन्तीर् नृमेधस् तत्रे अंहसः सुमेधस् तत्रे अंहसः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc