भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.129

10.129.01

नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत् ।
किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम् ॥

10.129.02

न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः ।
आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ॥

10.129.03

तम आसीत् तमसा गूळ्हम् अग्रे ऽप्रकेतं सलिलं सर्वम् आ इदम् ।
तुच्छ्येनाभ्व् अपिहितं यद् आसीत् तपसस् तन् महिनाजायतैकम् ॥

10.129.04

कामस् तद् अग्रे सम् अवर्तताधि मनसो रेतः प्रथमं यद् आसीत् ।
सतो बन्धुम् असति निर् अविन्दन् हृदि प्रतीष्या कवयो मनीषा ॥

10.129.05

तिरश्चीनो विततो रश्मिर् एषाम् अधः स्विद् आसी3द् उपरि स्विद् आसी3त् ।
रेतोधा आसन् महिमान आसन् स्वधा अवस्तात् प्रयतिः परस्तात् ॥

10.129.06

को अद्धा वेद क इह प्र वोचत् कुत आजाता कुत इयं विसृष्टिः ।
अर्वाग् देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥

10.129.07

इयं विसृष्टिर् यत आबभूव यदि वा दधे यदि वा न ।
यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc