ऋग्वेद · अध्याय 10.125
अहं रुद्रेभिर् वसुभिश् चराम्य् अहम् आदित्यैर् उत विश्वदेवैः ।
अहम् मित्रावरुणोभा बिभर्म्य् अहम् इन्द्राग्नी अहम् अश्विनोभा ॥
अहं सोमम् आहनसम् बिभर्म्य् अहं त्वष्टारम् उत पूषणम् भगम् ।
अहं दधामि द्रविणं हविष्मते सुप्राव्ये3 यजमानाय सुन्वते ॥
अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
ताम् मा देवा व्य् अदधुः पुरुत्रा भूरिस्थात्राम् भूर्य् आवेशयन्तीम् ॥
मया सो अन्नम् अत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्य् उक्तम् ।
अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥
अहम् एव स्वयम् इदं वदामि जुष्टं देवेभिर् उत मानुषेभिः ।
यं कामये तं-तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं तं सुमेधाम् ॥
अहं रुद्राय धनुर् आ तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
अहं जनाय समदं कृणोम्य् अहं द्यावापृथिवी आ विवेश ॥
अहं सुवे पितरम् अस्य मूर्धन् मम योनिर् अप्स्व् अ1न्तः समुद्रे ।
ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥
अहम् एव वात इव प्र वाम्य् आरभमाणा भुवनानि विश्वा ।
परो दिवा पर एना पृथिव्यैतावती महिना सम् बभूव ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0