ऋग्वेद · अध्याय 10.124
इमं नो अग्न उप यज्ञम् एहि पञ्चयामं त्रिवृतं सप्ततन्तुम् ।
असो हव्यवाळ् उत नः पुरोगा ज्योग् एव दीर्घं तम आशयिष्ठाः ॥
अदेवाद् देवः प्रचता गुहा यन् प्रपश्यमानो अमृतत्वम् एमि ।
शिवं यत् सन्तम् अशिवो जहामि स्वात् सख्याद् अरणीं नाभिम् एमि ॥
पश्यन्न् अन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि ।
शंसामि पित्रे असुराय शेवम् अयज्ञियाद् यज्ञियम् भागम् एमि ॥
बह्वीः समा अकरम् अन्तर् अस्मिन्न् इन्द्रं वृणानः पितरं जहामि ।
अग्निः सोमो वरुणस् ते च्यवन्ते पर्यावर्द् राष्ट्रं तद् अवाम्य् आयन् ॥
निर्माया उ त्ये असुरा अभूवन् त्वं च मा वरुण कामयासे ।
ऋतेन राजन्न् अनृतं विविञ्चन् मम राष्ट्रस्याधिपत्यम् एहि ॥
इदं स्वर् इदम् इद् आस वामम् अयम् प्रकाश उर्व् अ1न्तरिक्षम् ।
हनाव वृत्रं निरेहि सोम हविष् ट्वा सन्तं हविषा यजाम ॥
कविः कवित्वा दिवि रूपम् आसजद् अप्रभूती वरुणो निर् अपः सृजत् ।
क्षेमं कृण्वाना जनयो न सिन्धवस् ता अस्य वर्णं शुचयो भरिभ्रति ॥
ता अस्य ज्येष्ठम् इन्द्रियं सचन्ते ता ईम् आ क्षेति स्वधया मदन्तीः ।
ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्राद् अतिष्ठन् ॥
बीभत्सूनां सयुजं हंसम् आहुर् अपां दिव्यानां सख्ये चरन्तम् ।
अनुष्टुभम् अनु चर्चूर्यमाणम् इन्द्रं नि चिक्युः कवयो मनीषा ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0