भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.126

10.126.01

न तम् अंहो न दुरितं देवासो अष्ट मर्त्यम् ।
सजोषसो यम् अर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥

10.126.02

तद् धि वयं वृणीमहे वरुण मित्रार्यमन् ।
येना निर् अंहसो यूयम् पाथ नेथा च मर्त्यम् अति द्विषः ॥

10.126.03

ते नूनं नो ऽयम् ऊतये वरुणो मित्रो अर्यमा ।
नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्य् अति द्विषः ॥

10.126.04

यूयं विश्वम् परि पाथ वरुणो मित्रो अर्यमा ।
युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयो ऽति द्विषः ॥

10.126.05

आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा ।
उग्रम् मरुद्भी रुद्रं हुवेमेन्द्रम् अग्निं स्वस्तये ऽति द्विषः ॥

10.126.06

नेतार ऊ षु णस् तिरो वरुणो मित्रो अर्यमा ।
अति विश्वानि दुरिता राजानश् चर्षणीनाम् अति द्विषः ॥

10.126.07

शुनम् अस्मभ्यम् ऊतये वरुणो मित्रो अर्यमा ।
शर्म यच्छन्तु सप्रथ आदित्यासो यद् ईमहे अति द्विषः ॥

10.126.08

यथा ह त्यद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः ।
एवो ष्व् अ1स्मन् मुञ्चता व्य् अंहः प्र तार्य् अग्ने प्रतरं न आयुः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc