भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.123

10.123.01

अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इमम् अपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥

10.123.02

समुद्राद् ऊर्मिम् उद् इयर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि ।
ऋतस्य सानाव् अधि विष्टपि भ्राट् समानं योनिम् अभ्य् अनूषत व्राः ॥

10.123.03

समानम् पूर्वीर् अभि वावशानास् तिष्ठन् वत्सस्य मातरः सनीळाः ।
ऋतस्य सानाव् अधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥

10.123.04

जानन्तो रूपम् अकृपन्त विप्रा मृगस्य घोषम् महिषस्य हि ग्मन् ।
ऋतेन यन्तो अधि सिन्धुम् अस्थुर् विदद् गन्धर्वो अमृतानि नाम ॥

10.123.05

अप्सरा जारम् उपसिष्मियाणा योषा बिभर्ति परमे व्योमन् ।
चरत् प्रियस्य योनिषु प्रियः सन् सीदत् पक्षे हिरण्यये स वेनः ॥

10.123.06

नाके सुपर्णम् उप यत् पतन्तं हृदा वेनन्तो अभ्य् अचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनम् भुरण्युम् ॥

10.123.07

ऊर्ध्वो गन्धर्वो अधि नाके अस्थात् प्रत्यङ् चित्रा बिभ्रद् अस्यायुधानि ।
वसानो अत्कं सुरभिं दृशे कं स्व1र् ण नाम जनत प्रियाणि ॥

10.123.08

द्रप्सः समुद्रम् अभि यज् जिगाति पश्यन् गृध्रस्य चक्षसा विधर्मन् ।
भानुः शुक्रेण शोचिषा चकानस् तृतीये चक्रे रजसि प्रियाणि ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc