ऋग्वेद · अध्याय 10.119
इति वा इति मे मनो गाम् अश्वं सनुयाम् इति ।
कुवित् सोमस्यापाम् इति ॥
प्र वाता इव दोधत उन् मा पीता अयंसत ।
कुवित् सोमस्यापाम् इति ॥
उन् मा पीता अयंसत रथम् अश्वा इवाशवः ।
कुवित् सोमस्यापाम् इति ॥
उप मा मतिर् अस्थित वाश्रा पुत्रम् इव प्रियम् ।
कुवित् सोमस्यापाम् इति ॥
अहं तष्टेव वन्धुरम् पर्य् अचामि हृदा मतिम् ।
कुवित् सोमस्यापाम् इति ॥
नहि मे अक्षिपच् चनाच्छान्त्सुः पञ्च कृष्टयः ।
कुवित् सोमस्यापाम् इति ॥
नहि मे रोदसी उभे अन्यम् पक्षं चन प्रति ।
कुवित् सोमस्यापाम् इति ॥
अभि द्याम् महिना भुवम् अभी3माम् पृथिवीम् महीम् ।
कुवित् सोमस्यापाम् इति ॥
हन्ताहम् पृथिवीम् इमां नि दधानीह वेह वा ।
कुवित् सोमस्यापाम् इति ॥
ओषम् इत् पृथिवीम् अहं जङ्घनानीह वेह वा ।
कुवित् सोमस्यापाम् इति ॥
दिवि मे अन्यः पक्षो3 ऽधो अन्यम् अचीकृषम् ।
कुवित् सोमस्यापाम् इति ॥
अहम् अस्मि महामहो ऽभिनभ्यम् उदीषितः ।
कुवित् सोमस्यापाम् इति ॥
गृहो याम्य् अरंकृतो देवेभ्यो हव्यवाहनः ।
कुवित् सोमस्यापाम् इति ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0