भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.118

10.118.01

अग्ने हंसि न्य् अ1त्रिणं दीद्यन् मर्त्येष्व् आ ।
स्वे क्षये शुचिव्रत ॥

10.118.02

उत् तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे ।
यत् त्वा स्रुचः समस्थिरन् ॥

10.118.03

स आहुतो वि रोचते ऽग्निर् ईळेन्यो गिरा ।
स्रुचा प्रतीकम् अज्यते ॥

10.118.04

घृतेनाग्निः सम् अज्यते मधुप्रतीक आहुतः ।
रोचमानो विभावसुः ॥

10.118.05

जरमाणः सम् इध्यसे देवेभ्यो हव्यवाहन ।
तं त्वा हवन्त मर्त्याः ॥

10.118.06

तम् मर्ता अमर्त्यं घृतेनाग्निं सपर्यत ।
अदाभ्यं गृहपतिम् ॥

10.118.07

अदाभ्येन शोचिषाग्ने रक्षस् त्वं दह ।
गोपा ऋतस्य दीदिहि ॥

10.118.08

स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः ।
उरुक्षयेषु दीद्यत् ॥

10.118.09

तं त्वा गीर्भिर् उरुक्षया हव्यवाहं सम् ईधिरे ।
यजिष्ठम् मानुषे जने ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc