भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.120

10.120.01

तद् इद् आस भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस् त्वेषनृम्णः ।
सद्यो जज्ञानो नि रिणाति शत्रून् अनु यं विश्वे मदन्त्य् ऊमाः ॥

10.120.02

वावृधानः शवसा भूर्योजाः शत्रुर् दासाय भियसं दधाति ।
अव्यनच् च व्यनच् च सस्नि सं ते नवन्त प्रभृता मदेषु ॥

10.120.03

त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः ।
स्वादोः स्वादीयः स्वादुना सृजा सम् अदः सु मधु मधुनाभि योधीः ॥

10.120.04

इति चिद् धि त्वा धना जयन्तम् मदे-मदे अनुमदन्ति विप्राः ।
ओजीयो धृष्णो स्थिरम् आ तनुष्व मा त्वा दभन् यातुधाना दुरेवाः ॥

10.120.05

त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥

10.120.06

स्तुषेय्यम् पुरुवर्पसम् ऋभ्वम् इनतमम् आप्त्यम् आप्त्यानाम् ।
आ दर्षते शवसा सप्त दानून् प्र साक्षते प्रतिमानानि भूरि ॥

10.120.07

नि तद् दधिषे ऽवरम् परं च यस्मिन्न् आविथावसा दुरोणे ।
आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥

10.120.08

इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषम् अग्रियः स्वर्षाः ।
महो गोत्रस्य क्षयति स्वराजो दुरश् च विश्वा अवृणोद् अप स्वाः ॥

10.120.09

एवा महान् बृहद्दिवो अथर्वावोचत् स्वां तन्व1म् इन्द्रम् एव ।
स्वसारो मातरिभ्वरीर् अरिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc