भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.117

10.117.01

न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप गच्छन्ति मृत्यवः ।
उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारं न विन्दते ॥

10.117.02

य आध्राय चकमानाय पित्वो ऽन्नवान् सन् रफितायोपजग्मुषे ।
स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्डितारं न विन्दते ॥

10.117.03

स इद् भोजो यो गृहवे ददात्य् अन्नकामाय चरते कृशाय ।
अरम् अस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥

10.117.04

न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः ।
अपास्मात् प्रेयान् न तद् ओको अस्ति पृणन्तम् अन्यम् अरणं चिद् इच्छेत् ॥

10.117.05

पृणीयाद् इन् नाधमानाय तव्यान् द्राघीयांसम् अनु पश्येत पन्थाम् ।
ओ हि वर्तन्ते रथ्येव चक्रान्यम्-अन्यम् उप तिष्ठन्त रायः ॥

10.117.06

मोघम् अन्नं विन्दते अप्रचेताः सत्यम् ब्रवीमि वध इत् स तस्य ।
नार्यमणम् पुष्यति नो सखायं केवलाघो भवति केवलादी ॥

10.117.07

कृषन्न् इत् फाल आशितं कृणोति यन्न् अध्वानम् अप वृङ्क्ते चरित्रैः ।
वदन् ब्रह्मावदतो वनीयान् पृणन्न् आपिर् अपृणन्तम् अभि ष्यात् ॥

10.117.08

एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् ।
चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् पङ्क्तीर् उपतिष्ठमानः ॥

10.117.09

समौ चिद् धस्तौ न समं विविष्टः सम्मातरा चिन् न समं दुहाते ।
यमयोश् चिन् न समा वीर्याणि ज्ञाती चित् सन्तौ न समम् पृणीतः ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc