भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.116

10.116.01

पिबा सोमम् महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ ।
पिब राये शवसे हूयमानः पिब मध्वस् तृपद् इन्द्रा वृषस्व ॥

10.116.02

अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरम् आ सुतस्य ।
स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥

10.116.03

ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु ।
ममत्तु येन वरिवश् चकर्थ ममत्तु येन निरिणासि शत्रून् ॥

10.116.04

आ द्विबर्हा अमिनो यात्व् इन्द्रो वृषा हरिभ्याम् परिषिक्तम् अन्धः ।
गव्य् आ सुतस्य प्रभृतस्य मध्वः सत्रा खेदाम् अरुशहा वृषस्व ॥

10.116.05

नि तिग्मानि भ्राशयन् भ्राश्यान्य् अव स्थिरा तनुहि यातुजूनाम् ।
उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून् विगदेषु वृश्च ॥

10.116.06

व्य् अ1र्य इन्द्र तनुहि श्रवांस्य् ओजः स्थिरेव धन्वनो ऽभिमातीः ।
अस्मद्र्यग् वावृधानः सहोभिर् अनिभृष्टस् तन्वं वावृधस्व ॥

10.116.07

इदं हविर् मघवन् तुभ्यं रातम् प्रति सम्राळ् अहृणानो गृभाय ।
तुभ्यं सुतो मघवन् तुभ्यम् पक्वो3 ऽद्धीन्द्र पिब च प्रस्थितस्य ॥

10.116.08

अद्धीद् इन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् ।
प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥

10.116.09

प्रेन्द्राग्निभ्यां सुवचस्याम् इयर्मि सिन्धाव् इव प्रेरयं नावम् अर्कैः ।
अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश् च ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc