ऋग्वेद · अध्याय 10.114
घर्मा समन्ता त्रिवृतं व्य् आपतुस् तयोर् जुष्टिम् मातरिश्वा जगाम ।
दिवस् पयो दिधिषाणा अवेषन् विदुर् देवाः सहसामानम् अर्कम् ॥
तिस्रो देष्ट्राय निरृतीर् उपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः ।
तासां नि चिक्युः कवयो निदानम् परेषु या गुह्येषु व्रतेषु ॥
चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।
तस्यां सुपर्णा वृषणा नि षेदतुर् यत्र देवा दधिरे भागधेयम् ॥
एकः सुपर्णः स समुद्रम् आ विवेश स इदं विश्वम् भुवनं वि चष्टे ।
तम् पाकेन मनसापश्यम् अन्तितस् तम् माता रेळ्हि स उ रेळ्हि मातरम् ॥
सुपर्णं विप्राः कवयो वचोभिर् एकं सन्तम् बहुधा कल्पयन्ति ।
छन्दांसि च दधतो अध्वरेषु ग्रहान् सोमस्य मिमते द्वादश ॥
षट्त्रिंशाँश् च चतुरः कल्पयन्तश् छन्दांसि च दधत आद्वादशम् ।
यज्ञं विमाय कवयो मनीष ऋक्सामाभ्याम् प्र रथं वर्तयन्ति ॥
चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त ।
आप्नानं तीर्थं क इह प्र वोचद् येन पथा प्रपिबन्ते सुतस्य ॥
सहस्रधा पञ्चदशान्य् उक्था यावद् द्यावापृथिवी तावद् इत् तत् ।
सहस्रधा महिमानः सहस्रं यावद् ब्रह्म विष्ठितं तावती वाक् ॥
कश् छन्दसां योगम् आ वेद धीरः को धिष्ण्याम् प्रति वाचम् पपाद ।
कम् ऋत्विजाम् अष्टमं शूरम् आहुर् हरी इन्द्रस्य नि चिकाय कः स्वित् ॥
भूम्या अन्तम् पर्य् एके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः ।
श्रमस्य दायं वि भजन्त्य् एभ्यो यदा यमो भवति हर्म्ये हितः ॥
मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0