भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.115

10.115.01

चित्र इच् छिशोस् तरुणस्य वक्षथो न यो मातराव् अप्येति धातवे ।
अनूधा यदि जीजनद् अधा च नु ववक्ष सद्यो महि दूत्य1ं चरन् ॥

10.115.02

अग्निर् ह नाम धायि दन्न् अपस्तमः सं यो वना युवते भस्मना दता ।
अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥

10.115.03

तं वो विं न द्रुषदं देवम् अन्धस इन्दुम् प्रोथन्तम् प्रवपन्तम् अर्णवम् ।
आसा वह्निं न शोचिषा विरप्शिनम् महिव्रतं न सरजन्तम् अध्वनः ॥

10.115.04

वि यस्य ते ज्रयसानस्याजर धक्षोर् न वाताः परि सन्त्य् अच्युताः ।
आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥

10.115.05

स इद् अग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः ।
अग्निः पातु गृणतो अग्निः सूरीन् अग्निर् ददातु तेषाम् अवो नः ॥

10.115.06

वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे ।
अनुद्रे चिद् यो धृषता वरं सते महिन्तमाय धन्वनेद् अविष्यते ॥

10.115.07

एवाग्निर् मर्तैः सह सूरिभिर् वसुः ष्टवे सहसः सूनरो नृभिः ।
मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैर् अभि सन्ति मानुषान् ॥

10.115.08

ऊर्जो नपात् सहसावन्न् इति त्वोपस्तुतस्य वन्दते वृषा वाक् ।
त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥

10.115.09

इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयो ऽवोचन् ।
ताँश् च पाहि गृणतश् च सूरीन् वषड् वषळ् इत्य् ऊर्ध्वासो अनक्षन् नमो नम इत्य् ऊर्ध्वासो अनक्षन् ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc