भाषा

ENहिગુ
ग्रंथ पाठ

ऋग्वेद · अध्याय 10.113

10.113.01

तम् अस्य द्यावापृथिवी सचेतसा विश्वेभिर् देवैर् अनु शुष्मम् आवताम् ।
यद् ऐत् कृण्वानो महिमानम् इन्द्रियम् पीत्वी सोमस्य क्रतुमाँ अवर्धत ॥

10.113.02

तम् अस्य विष्णुर् महिमानम् ओजसांशुं दधन्वान् मधुनो वि रप्शते ।
देवेभिर् इन्द्रो मघवा सयावभिर् वृत्रं जघन्वाँ अभवद् वरेण्यः ॥

10.113.03

वृत्रेण यद् अहिना बिभ्रद् आयुधा समस्थिथा युधये शंसम् आविदे ।
विश्वे ते अत्र मरुतः सह त्मनावर्धन्न् उग्र महिमानम् इन्द्रियम् ॥

10.113.04

जज्ञान एव व्य् अबाधत स्पृधः प्रापश्यद् वीरो अभि पौंस्यं रणम् ।
अवृश्चद् अद्रिम् अव सस्यदः सृजद् अस्तभ्नान् नाकं स्वपस्यया पृथुम् ॥

10.113.05

आद् इन्द्रः सत्रा तविषीर् अपत्यत वरीयो द्यावापृथिवी अबाधत ।
अवाभरद् धृषितो वज्रम् आयसं शेवम् मित्राय वरुणाय दाशुषे ॥

10.113.06

इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे ।
वृत्रं यद् उग्रो व्य् अवृश्चद् ओजसापो बिभ्रतं तमसा परीवृतम् ॥

10.113.07

या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर् यतमानौ समीयतुः ।
ध्वान्तं तमो ऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूताव् अपत्यत ॥

10.113.08

विश्वे देवासो अध वृष्ण्यानि ते ऽवर्धयन् सोमवत्या वचस्यया ।
रद्धं वृत्रम् अहिम् इन्द्रस्य हन्मनाग्निर् न जम्भैस् तृष्व् अन्नम् आवयत् ॥

10.113.09

भूरि दक्षेभिर् वचनेभिर् ऋक्वभिः सख्येभिः सख्यानि प्र वोचत ।
इन्द्रो धुनिं च चुमुरिं च दम्भयञ् छ्रद्धामनस्या शृणुते दभीतये ॥

10.113.10

त्वम् पुरूण्य् आ भरा स्वश्व्या येभिर् मंसै निवचनानि शंसन् ।
सुगेभिर् विश्वा दुरिता तरेम विदो षु ण उर्विया गाधम् अद्य ॥

मूल पाठ: Ṛgveda-Saṃhitā · Edition: Theodor Aufrecht Die Hymnen des Rigveda. Mandala I-VI Bonn Mareus Theodor Aufrecht Die Hymnen des Rigveda. Mandala VII-X Bonn Mareus · Data entry Barend A. Van Nooten Gary B. Holland · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc